Journal of Advances in Developmental Research

E-ISSN: 0976-4844     Impact Factor: 9.71

A Widely Indexed Open Access Peer Reviewed Multidisciplinary Bi-monthly Scholarly International Journal

Call for Paper Volume 16 Issue 1 January-June 2025 Submit your research before last 3 days of June to publish your research paper in the issue of January-June.

वाल्मीकि रामायणे वर्णव्यवस्थायाः विविधायामाः

Author(s) विकास सिंह, डॉ. वंदना शर्मा
Country India
Abstract वर्ण-व्यवस्था पुराकाले ऋषिभिः मनीषिभिश्च सामाजिकतन्त्रे सम्यक् संचालनाय स्थापितमस्ति। ऋग्वेदे पुरुषसूक्ते यत्र सम्पूर्णं समाजं चतुर्षु श्रेणीषु विभक्तं दृश्यते—ब्राह्मण, क्षत्रिय, वैश्य, शूद्र इत्यादयः। यत्र प्रत्येकस्य उत्पत्तिर्विराट् पुरुषेण अभिव्यक्तं, यः पुरुषः सर्वभूतस्य आत्मा, प्रत्येकस्य गुणदर्शनमूलकं आधारभूतं अस्ति। ब्राह्मणः पुरुषस्य मुखे स्थितमस्ति, क्षत्रियः भुजद्वये स्थितमस्ति, वैश्यः उरुस्थले स्थितमस्ति, शूद्रः पादद्वयं प्राप्तमस्ति। एतेषां चतुर् वर्णानां समुच्चयात् 'आतिवर्णं' इति उच्यते। इति अनेन मन्त्रे सम्पूर्ण समाजस्य विविधतायाः स्पष्टिर्लभते, यत्र प्रत्येकं वर्णं स्वधर्मे स्थिरं च रहितं कार्येण आत्मनं प्रकटयति। वर्णव्यवस्था न केवलं सामाजिक संरचनायाः, अपि तु समाजे न्याय, समानता, तथा सहयोगस्य आदर्शमपि स्थापितं कर्तुं आवश्यकं आसीत्। यः कर्मफलस्य आधारः तथा समाजे प्रत्येकस्य व्यक्तित्वं च संतुलितं कर्तुं वर्णव्यवस्था संकल्पिता।
किंतु समये कालदृष्ट्या सामाजिक परिवर्तनानि समुत्पन्नानि। आधुनिक कालस्य विश्लेषणानुसार, वर्णव्यवस्था कदाचित् दुरुपयोगप्रवृत्तेः कारणं भूतवती, यः जातिवादस्य आधारशक्ति बनन्ति। परंतु प्राचीनकाले अस्मिन वदत्येव—वर्णव्यवस्था मानवजीवनस्य आवश्यक अंगमासीत्, यः समाजस्य प्रत्येकस्तरीय लोकधर्मं सुरक्षितुं व्यवस्थायाः शुद्धता प्रति केन्द्रितं अस्ति।
स्मर्तव्यं यः श्रेणीव्यवस्था कदाचित् अनर्थपरिणामेण परिणमति, किंतु ऋषिगणाः सामाजिक समरसता, पुण्यकर्म, तथा आत्मबोधे निरन्तर प्रयत्नशीलाः आसन्। शास्त्रविद् जनाः समाजस्य सर्वोत्तम हिताय कार्यं अतीव समर्पणमस्ति इति स्थापितं कर्तुं यत्नमधिष्ठितं यः अतिविस्तृतं कालांतरितं विज्ञानप्रवर्धनं च अभिनवदृष्ट्याः प्रतिस्पर्धं प्रवर्तयामास।
वर्ण-व्यवस्था पुराकाले ऋषिभिः मनीषिभिश्च सामाजिकतन्त्रं सम्यक्तया संचालनाय वर्णव्यवस्था नियोजिता ऋग्वेदे पुरुषसूक्तानां मन्त्रेषु सम्पूर्णः समाजः चतुर्षु श्रेणीषु विभक्तो विद्यते-ब्राह्मण-क्षत्रिय- वैश्य-शूद्रश्च। येषामुत्पत्तिर्विराट्पुरुषात्मन्यते। ब्राह्मण विराट्पुरुषस्य मुखं वर्तते, भुजाद्वयमस्ति क्षत्रियः, वैश्यः जानुद्वयमस्ति, शूद्रंपादद्वयं चास्ति। एतेभ्यः चतुर्वर्णेभ्यः चातुर्वर्णं उच्यते।

"ब्राह्मणोऽस्य मुखमासीद् बाहूराजन्यः कृतः।
उरुतदस्य यद्वैश्यः पदभ्यां शूद्रोऽजायतः ।।'

वर्णव्यवस्था भारतीयसंस्कृतेः महत्वपूर्ण सामाजिक-विषेशता वर्तते। प्रत्येकं जनः प्रत्येककार्यस्य कृते उपयुक्तो न भवति। प्रत्येकं मनुष्यस्य रूचि, स्वभावः, कार्यसामर्थ्यं पृथक-पृथक् भवति। यदि कश्चिद् स्वरुच्यानुसारं न कार्यं करोति, तदा तस्मिन् कार्ये से दक्षतां न प्राप्नोति। तत्कार्यमेव सः स्वरुच्यानुसारं करोति तर्हि तस्मिन कार्ये सः झटिति दक्षतां, यश, कीर्ति च प्राप्नोति। अतः समाजस्य पूर्णनिर्माणाय केचनविशिष्टा गुणा अनिवार्याः भवन्ति।
समाजस्य पूर्णविकासाय वेदेषु या वर्णव्यवस्था आसीत्। सा पूर्णरुपेण गुणेषु कर्मषु चाश्रिता वर्तते। वेदेषु वर्णः वृत्यानुसारमास्ति, जात्यानुसारं नास्ति। अतः ब्राह्मणादिनां वर्णानां सम्बन्धः जन्मनास्त्यपितु यस्य यादृशी वृत्तिभविष्यति, तस्य तादृशः वर्णः भविष्यति। गीतायां कथितम् -
"चातुर्वण्यं मया सृष्टं गुणकर्मविभागशः।"
रामायणकालेऽपि वर्णव्यवस्था वैदिकव्यवस्थानुसारं विराटपुरुषात् उत्पन्नमाना आसीत्। एतदनुसारं समाजस्य चर्तुषु वर्णेषु विभाजनं जातम्। विराटपुरुषमुखात् उत्पन्नकाराणात् ब्राह्मणः समाजशरीरस्यमुखम् ज्ञातम्। तस्य कार्यं अध्यापनं, यजनयाजनं च निर्धारितिम्। बाहुतः उत्पन्नमानाः क्षत्रियः समाजशरीरस्य वाहुद्वयम्, तस्य कार्यं शस्त्रधारणं, प्रजायाः रक्षाकरणम्, वैश्यः समाजशरीरस्य जानुद्वयम्, वाणिज्यव्यापारं समाजस्य पालनम्, पादाभ्याम् उत्पन्नमानः शूद्रः समाजसेवायाः भारं प्राप्तवान्।

"मुखतो ब्राह्मणा जाता उरसः क्षत्रियास्तथा।
उरुभ्यां जजिरे वैश्याः पद्भ्यां शूद्रा इति श्रुतिः ।।"

एतेषु चतुर्षु वर्णेषु प्रथमत्रयाणां वर्णानां ब्राह्मण-क्षत्रिय-वैश्यानां कृते द्विज उच्यते स्म।
दशरथेन समाजस्य सुव्यवस्थायै संसारे चतुर्वर्णान् स्वधर्मानुसारं तेषां नियुक्तिः पृथक् पृथक् रुपेण कृता। चातुर्वर्ण्य च लोकेऽस्मिन् स्वे स्वे धर्मे नियोध्यति। रामराज्ये चतुर्णां वर्णानां जनाः लोभरहितास्सन्तुष्टाञ्चासन् सर्वेऽपि स्व-स्व कर्मणि सलंग्रा आसन्।
"ब्राह्मणः क्षत्रिया वैश्याः शूद्रालोभविवर्जिता।
स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मर्भिः ।।"

ब्राह्मणाः -
समाजरुपी पुरुषस्य मुखात् केवल भोजनेन सम्बन्ध नास्त्यपितु तस्मिन् मस्तिष्क स्वीक्रियते। मनुष्यशरीरे मस्तिष्कस्य सर्वोच्च स्थानं वर्तते। ब्राह्मणः समाजस्य समुचितं मार्गदर्शनं करोति। अतः मनुना ब्राह्मणाय षट्कर्मणां विधानं कृतं। येन ब्राह्मणः समाजे वन्दनीयः, पूजनीयश्च भवेत्।
"अध्यापनमध्ययनं यजनं याजनं तथा।
दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयन्।।"
रामायणकालेऽपि ब्राह्मणां स्थानं सर्वोपरि आसीत्। ब्राह्मणाः अहर्निशं ब्रह्मसाधनायां निरताः भवन्ति। वेदस्य, योगस्य सततं अनासक्तभावेन चिन्तनं कुर्वन्ति। यदा रामः वनवासे आसीत् तथा वने एतादृशाः ब्रह्मतेजसायुक्ताः ब्राह्मणाः हठयोगं कुर्वन्तिस्म।
"सर्वे ब्राह्मणा श्रिया युक्ता दृढ़योगसमन्विताः।"
दशरथस्य यज्ञेऽपि वेदविद्यायां पारंगताः वेदपाठिनः, ब्रह्मवादिनश्च ऋत्विजाः समागताहूता चासन्।

"ततोऽब्रवीनृपो वाक्य ब्राह्मणान् वेदपारगान्
सुमन्त्रावाह्य क्षिप्रमृत्विजो ब्रह्मवादिनः।"

समाजे ब्राह्माणं कार्यं यजनं याजनं, पठनं-पाठनं, तपस्या चासीत् इदमेव ब्राह्मणानां जीविकायाः साधनमप्यासीत्। पौरोहित्यविषये एकाधिकाराय एतेषामेकं संघटनमप्यासीत् यस्य वृतान्तं राज्ञः त्रिशक्तोः कथायां प्राप्यते। यदा वशिष्ठपुत्रैः त्रिशक्कोः यज्ञस्य पौरोहित्यमस्वीकृतम्, तदा राज्ञया विश्वामित्रं पुरोहितः नियुक्तः । पुनः वशिष्ठपुत्रैः राज्ञे चाण्डालं भव श्रापं दत्तम्। तदा दैवेरपि बलिः अस्वीकृता। इदानीं यज्ञस्य यजमानः चाण्डालः संजातः याजकः क्षत्रिय एवं अस्ति यतोहि विश्वामित्रेण ब्राह्मणत्वं न प्राप्तमास्ति।
"क्षत्रियो याजको यस्य चाण्डालस्य विशेषतः ।
कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ।।"

एतेन ज्ञायते यत् तस्मिन् काले ब्राह्मणाः स्वयं भोजनं पाचयित्वां
खादन्ति स्म। पवित्रता कारणाद् स्वर्गगमनस्य अवधारणासीत्।
क्षत्रियः -
ऋग्वेदे विराट्पुरुषस्य भुजाभ्यामुत्पन्नं मन्यते। येन प्रकारेण हस्तौ सम्पूर्णशरीरस्य रक्षां कुरुतः, तथैव क्षत्रिय अपि सम्पूर्ण समाजस्य रक्षायै भवति। मनुस्मृतौ क्षत्रियाणां कर्तव्यानि निर्दिष्टानि वर्तन्ते-
"प्रजानां रक्षणं दानमिज्याऽध्यपनमेव च।
विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः ।। "14
मनुना यानि कर्तव्यानि निर्दिष्टानि तानि वाल्मीकिना रामायणे निगद्यते यथा राजादशरथः यज्ञकर्ता, धर्मपरायणः, जितेन्द्रियः, दिव्यगुणसम्पन्न, बलावान्, शत्रुहीनः सम्पूर्णाजगतस्य रक्षायै समर्थः क्षत्रिय आसीत्।
"यथा मनुमहातेजा लोकस्य परिरक्षिता।
तथा दशरथो राजा लोकस्य परिरक्षिता ।।

प्राप्य रामः विश्वामित्रात् बलामतिबलां विद्यां राक्षसीताऽकायाः मारीचस्य, सुबाहोश्व वधं कृत्वा निर्विघ्नं यज्ञं सम्पादितवान् क्षत्रियस्य रक्षणशक्ति सार्थकं कृतम् एवं प्रकारेण रामराज्ये प्रजापूर्णरुपेण सुरक्षितासीत् जनाः प्रसन्नाञ्चासन्। वैश्यः
वैश्यविराट् पुरुषस्य जानुभ्यामुत्पन्नो जायते इति मन्यते। यथा जानुसम्पूर्णशरीरस्य भारं निर्वहतः तथैव वैश्योऽपि समाजस्य भरण- पोषणं च करोति स्म। मनुस्मृती यः समाजस्य पोषणं करोति तस्य कांति कर्त्तव्यानि कथितानि -
"पशूनां रक्षणं दानमिज्याध्ययनमेव च।
वणिक्पथं कुसीदं च वैश्यस्य कृषिमेय च ।।"
रामायणकाले अयोध्यायाः समृद्धिं दृष्टवा वक्तुम् शक्नुमः यद्वैश्यवर्णः सुदृद्ध कर्मनिष्ठवासीत्। विविधानां देशानां वैश्याः तस्या अयोध्यायाः शोभा वर्धन्ते स्म। वैश्यानां प्रभावेण काचिदपि खी वा पुरुषों वा श्रीहीनः नासीत्। कश्चिदऽपि रुपरहितोऽभक्तिमान् नासीत्।
"सामन्तराजसंधैश्च बलिकर्मभिरावृताम्।
नानादेशनिवासैश्च वणिग्भिरुपशोभिताम्।।"
अयोध्यायां यज्ञसमये मार्गे आपणाः वैश्यसमृद्धेः प्रमाणास्ति। तत्र आवश्यकवस्तूनां क्रय-विक्रयार्थं च स्थाने-स्थाने आसन्, वैश्यानां नटनर्तकानां, खिणां च कृते आपणानां संज्जता वैश्यवर्णस्य सुसम्पन्नतां प्रदर्शयति।

शूद्रः-
ऋग्वेदे शूद्रवर्णस्य उत्पत्तिर्विराटपुरुषस्य पादाभ्यां ज्ञायते यथा- पादौ गमनागमनस्य साधनमस्ति। शरीरस्य सम्पूर्णभारं सोडवा क्रियाशीलं करोति, तथैव शूद्रः श्रमेण सर्वाणि कार्याणि सम्पाद्य समाजं गतिशीलं, क्रियाशीलं, विकासशील च करोति।
रामायणे रामस्य वनात् अयोध्यां प्रत्यागमनात् पूर्व अयोध्यायाः गंगातट यावत् तत्रत्यैः सेवकैः सुररम्यसुखदस्य राजमार्गस्य निर्माणं कृतम्। ते सेवका शूद्रजातिनः आसन्। अयोध्याकाण्डस्य श्रृंगवेरपुरे गुहनाम्नः कश्चिद्राजा राज्यं करोति स्म। सः निषादकुले समुत्पन्नम् । सः रामं दृष्ट्वा तस्य चरणयोः प्रक्षालनमकरोत्। निषादराजो रामाय सर्वस्वं समर्थ्य श्रद्धया नौकया नदीमवतारयत्। यदा भरते राममन्वेष्टुं चित्रकूटमागतवान् तदा गुहराजः स्ववान्धवैः सह प्रसन्नतापूर्वक मागत्य विनम्रेण अवदत्-

"निष्कुटश्चैव देशोऽयं वंचिताश्वापि मे वयम्।
निवेदयाम् ते सर्व स्वके दासगृहे वस ।।

इत्थं प्रकारेण रामायणे वर्णव्यवस्था पूर्णरुपेण व्यवस्थिता आसीत्, सर्वेषां वर्णानां परस्परं सौहार्द समीचीनमासीत्, रामराज्ये प्रजाऽपि सामाजिकं, मानसिकम्, आर्थिक, शारीरिकरुपेण च स्वात्मानं सुसम्पन्नं स्वस्थं चानुभूयते स्म।

सहायक सन्दर्भ ग्रन्थ
1. अमरकोष, रामाश्रयी टीका, चौखम्भा संस्कृत संस्थान, वाराणसी, सं- 2036.
2. ऋग्वेद वैदिक यन्त्रालय, अजमेर।
3. मनुस्मृति श्री हरगोविन्द शास्त्री, चौखम्भा संस्कृत सीरिज़, बनारस।
4. महाभारत - गीता प्रेस, गोरखपुर, से 2065.
5. वाल्मीकि रामायण गीता प्रेस, गोरखपुर, सं - 2077.
6. वेदों में राजनीति शास्त्र डॉ. कपिलदेव द्विवेदी, द्वितीय संस्करण- 2009.

सन्दर्भग्रन्थाः -
1. ऋग्वेद, मण्डल-10, सूक्त-90, मन्त्र-12
2. वेदों में राजनीति शास्त्र डॉ. कपिलदेव द्विवेदी, पृष्ठ- 22
3. वेदों में राजनीति शास्त्र डॉ. कपिलदेव द्विवेदी, पृष्ठ- 23
4. गीता, अध्याय 4, लोक- 13
5. वाल्मीकि रामायण, अरण्य काण्ड, सर्ग 14, श्लोक 30
6. वाल्मीकि रामायण, अरण्य काण्ड, सर्ग- 14. श्लोक 31
1. 7. राजवंशान् शतगुणान् स्थापयिष्यति राघवः। चातुर्वर्ण्य च लोकऽस्मिन् स्वे-स्वे धर्मे नियोध्यति।। (वाल्मीकि रामायण, बालकाण्ड, सर्ग 1. श्लोक 96)
7. वाल्मीकि रामायण, युद्ध काण्ड, सर्ग- 128, लोक- 104
8. मनुस्मृति, अध्याय 1. श्लोक - 88
9. वाल्मीकि रामायण, अरण्य काण्ड, सर्ग 6, लोक 6
10. वाल्मीकि रामायण, बालकाण्ड, सर्ग 12. लोक - 4
11. वाल्मीकि रामायण, बालकाण्ड, सर्ग- 59, श्लोक - 13
2. 13. ब्राह्मणा वा महात्मनो भुक्त्वा चाण्डालभोजनम्। कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः।। (वाल्मीकि रामायण, बालकाण्ड, सर्ग 59, लोक 14)
3. 14. मनुस्मृति, अध्याय 10, श्लोक 59
4. 15. वाल्मीकि रामायण, बालकाण्ड, सर्ग 6, श्लोक - 4
5. 16. मनुस्मृति, अध्याय 1, श्लोक 90
6. 17. वाल्मीकि रामायण, बालकाण्ड, सर्ग 5, चोक-14
7. 18. ऋग्वेद, मण्डल-10, सूक्त-90, मन्त्र-12
8. 19. वाल्मीकि रामायण, अयोध्या काण्ड, सर्ग 84, श्लोक 16
Keywords .
Field Arts
Published In Volume 16, Issue 1, January-June 2025
Published On 2025-01-30
Cite This वाल्मीकि रामायणे वर्णव्यवस्थायाः विविधायामाः - विकास सिंह, डॉ. वंदना शर्मा - IJAIDR Volume 16, Issue 1, January-June 2025.

Share this