Journal of Advances in Developmental Research

E-ISSN: 0976-4844     Impact Factor: 9.71

A Widely Indexed Open Access Peer Reviewed Multidisciplinary Bi-monthly Scholarly International Journal

Call for Paper Volume 16 Issue 1 January-June 2025 Submit your research before last 3 days of June to publish your research paper in the issue of January-June.

वैदिक शिक्षा पद्धतिः – एकं अध्ययनम्

Author(s) जसराम बैरवा
Country India
Abstract "पडङ्गो वेदोऽध्येयः ज्ञेयश्च " इति श्रुति वाणी। षडङ्गश्च छन्दः; कल्पः; ज्योतिषम्, निरुक्तम्, शिक्षा, व्याकरणमिति । एतानि चाङ्गानि वेदपुरुषस्य पादादिस्थानरूपत्वेन संस्तूयन्तेऽन्यत्र। तेषूक्तेषु षडङ्गेषु मध्ये "शिक्षाघ्राणमित्यनेन" उदितशिक्षायाः ईश्वरोच्वास निःश्वासात्मकतयोपवर्णितवेदस्य इतराङ्गापेक्षया परममहत्वपूर्णत्वमुद्घोषितम्। एवं रूपा च शिक्षा प्रतिवेदं भिन्ना भिन्ना वहुभिः पूर्वजैरुपदिष्टा। तासु कृष्णयजुपि तैत्तिरीये सुगमज्ञानाय वह्नयः शिक्षाः सन्ति। तास्वपि महत्वपूर्णत्वेन प्रधानतया नवशिक्षाः। यथा -
प्रथमा व्यासशिक्षा च लक्ष्मीशिक्षा द्वितीयका ।
भारद्वाजि तृतीयाचं शिक्षाऽऽरण्या तुरीयका।।
पञ्चमी शम्भु शिक्षाच षष्ठी चापिशली तथा ।
सप्तमी पाणिनेः शिक्षा अष्टमी कौहली तथा।।
वासिष्ठी नवमी चैवं नवशिक्षाः प्रकीर्त्तिताः ।।
एतेषु शिक्षाग्रन्थेषु वर्णाः, तेषां स्थानकरणप्रयत्नविशेषाः, वर्णेच्चारणपद्धतिः, वर्णागमः, वर्णविकाराः, वर्णलोपः, स्वरसन्ध्यादिविशेषाः इत्यादयः नैके विषयाः प्रतिपादिताः। ते विषयाः अस्मिन् शेधपत्रे किञ्चित् विव्रियते ।

कूटशब्दः शिक्षा, वर्णोत्पत्तिः, वर्णोच्चारणम्, हस्तस्वरः

प्रस्तावना
वेदस्य अङ्गसहितस्य ब्रह्मसाक्षात्कार एव परमप्रयोजनम् । वेदपुरुषस्य षडङ्गानि पाणिनीयशिक्षायां
स्पष्टमुच्यन्ते –
छन्दः पादौ तु वेदस्य हस्ती कल्पोऽथ पठ्यते ।
ज्योतिषामयनं चक्षुः निरुक्तं श्रोत्रमुच्यते ।।
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात्साङ्ग‌मधीत्यैव ब्रह्मलोके महीयते ।।
एतेन च स्पष्टीभवति यत् वेदस्य अङ्गैस्सह अङ्गाङ्गिभावरूपसम्बन्धः वरीवर्तीति । तत्र शिक्षायाः, शिक्ष्यते स्थानादिकम् अनया (शिक्ष 2 विद्योपादाने, गुरोश्च हलः ।।- इत्यप्रत्ययः) इति व्युत्पत्तिमनुसृत्य प्रथमं स्थानम् इतरवेदाङ्गापेक्षया । शिक्षाया मूलमस्ति तैत्तिरियोपनिषदि शीक्षावल्लीनामके शीक्षां व्याख्यास्यामः। वर्णस्स्वरः । मात्रा वलम् । साम सन्तानः । इत्युक्तश्शीक्षाध्यायः इति। स्वर्ग लोके च शिक्षोक्तप्रकारेण प्रयुक्तस्यैव फलशालित्वमुक्तं वेदे । तच्च वचनं महाभाष्ये पूर्वपरयोः ।। इति सूत्रे पतञ्जलिना, पस्पशायां कैयटेन च प्रादर्शि-एकः
एकः शब्दः सम्यग्ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके च कामधुग्भवति। सुप्रयुक्तः इत्यस्य शिक्षोक्तरीत्या प्रयुक्त इत्यर्थः । रामायणे सुन्दरकाण्डे संस्काररहिताया वाचः अर्थान्तरगमकत्वं वर्णयामास वाल्मीकिः-
दुःखेन बुबुधे सीतां हनुमाननलङ्कृताम् ।
संस्कारेण यथा हीनां वाचमर्थान्तरं गताम्।।
कालिदासश्च कुमारसम्भवे तमेव भावं दृढीचकार-
संस्कारवत्येव गिरा मनीषी, तया स पूतश्च विभूषितश्च ।।
स्वजनः श्वजनो मा भूत् सकलं शकलं सकृत् शकृत् ।।
अत्र व्याकरणम् उपलक्षणं शिक्षायाः। शिक्षाधीनत्वात् । उच्चारणस्य
यत्किञ्चिन्यूनातिरिक्तं पङ्गिशच्छिक्षाग्रन्थैः समुल्लसति गीर्वाणवाणी वैदिकी लौकिकी च। तत्र वर्णानां स्वराणां च संख्याविषये मतभेदः संलक्ष्यते शिक्षाग्रन्थेषु । तथाऽपि सधूलतया शिक्षाकाराणाम् ऐकमत्यम् अस्त्येव । सत्स्वपि वहुषु शिक्षाग्रन्थेषु पाणिनीयशिक्षैव प्रायेण सर्वैरपिआद्रियते। तत्र तामेव स्वीकृत्य केचन मुख्याः विषयाः पत्रेऽस्मिन् प्रस्तूयन्ते।
वर्णोत्पत्तिः
परमर्षिणा पाणिनिना वर्णेत्पत्तिः स्पष्टरूपेण अभाषि -
आत्मा वुद्ध्या समेत्यार्थान् मनो युङ्के विवक्षया ।
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ।।' मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् । सोदीर्णो मूर्ध्यभिहतो वत्क्रमापद्य मारुतः । वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः ।।१
विदुषा नागेशभट्टेन लघुशब्देन्दुशेखरे संज्ञाप्रकरणे श्लोकौ इमौ एवं व्याख्यातौ
आत्मा अन्तःकरणं संस्काररूपेण स्वगतानर्थान् बुद्ध्या स्ववृत्त्या समेत्य एकबुद्धिविषयान् कृत्वा तद्बोधनेच्छया मनः युक्तं करोति। तदिच्छावन्मनः कायाग्निं जाठरमग्निम् अभिहन्ति । स कायाग्निः। सोदीर्णः। स मारुतः उदीर्णः। ऊध्र्वं प्रेरित इत्यादिस्तदर्थः। एवञ्च शब्दप्रयोगेच्छया उत्पन्नयत्नाभिहताग्निना नाभिप्रदेशात्प्रेरितः वायुः वेगान्मूर्धपर्यन्तं गत्वा प्रतिनिवृत्तौ वत्कं प्राप्य उक्तयत्नसहायेन तत्तत्स्थानेषु जिह्वाग्रादिस्पर्शपूर्वकं तत्तत्स्थानान्याहत्य वर्णानभिव्यनक्ति।
हिमवान् पार्वत्या पूतः विभूषितश्च इत्यर्थः । कश्चन पिता पुत्रं शास्ति-
यद्यपि बहुनाधीषे तथापि पठ पुत्र व्याकरणम् ।
वर्णोच्चारणम्
व्याघ्री पुत्रान् दंष्ट्रभ्यां नयेत् भीता सती पतनभेदाभ्याम् अपीडयन्ती च । तद्वत् नाव्यक्ताः न वा पीडिताः वर्णाः प्रयोक्तव्या इति सोपमं वर्णोच्चारणविधिः न्यरूपि आचार्येण पाणिनिना। अनेनैव प्रकारेण इतरैः शिक्षाकारैः -
व्याघ्री यथा हरेत् पुत्रान् दंष्ट्राभ्यां न तु पीडयेत् ।
भीता पतनभेदाभ्यां तद्वद्वर्णान् प्रयोजयेत् ।।
एवं वर्णानां प्रयोगेण ब्रह्मलोकप्राप्तिरवाप्यते इत्यपि आचार्येण अगादि -
एवं वर्णाः प्रयोक्तव्याः नाव्यक्ताः न च पीडिताः ।
सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते ।।
तत्रैव शिक्षायाम् अधमपाठकाः निरुक्ताः -
गीती शीघ्री शिरः कम्पी तथा लिखितपाठकः ।
अनर्थज्ञोऽल्पकण्ठश्च पडेते पाठकाधमाः ।।
तत्र लिखितपाठकत्वं साम्प्रदायिकैः प्रायेण नाङ्गीक्रियते-
पुस्तकस्था च या विद्या परहस्ते च यद्धनम् ।
कार्यकाले समायाते न सा विद्या न तद्धनम् ।।

माधुर्यादयः गुणाः पाठकस्य षडिति अजीगणत् पाणिनिः-
माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः ।
धैर्यं लयसमर्थं च षडेते पाठका गुणाः ।।
सामान्येन उच्चारणे लक्ष्यमाणानपि शङ्कामीत्यानुनास्यादीनपि स्पष्टताप्रतिपत्तये अजगणदाचार्यः-
दोषान्
शङ्कितं भीतमुद्धृष्टमव्यक्तमनुनासिकम् ।
काकस्वरं शिरसिगं तथा स्थानविवर्जितम् ।।
उपांशु दष्टं त्वरितं निरस्तं विलम्बितं गद्ग‌दितं प्रगीतम् ।
निप्पीडितं ग्रस्तपदाक्षरं न वदेन दीनं न तु सानुनास्यम् ।।
त्रिषष्टिः चतुष्यष्टिर्वा वर्णाः इति व्यक्तीकरोति पाणिनिः-
प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः ।
पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ।।
त्रिषष्टिश्चतुष्यष्टिर्वा वर्णाः शम्भुमते मताः ।
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा ।।
अत्यन्तमप्राप्तौ विधिः ।
स्वर-काल-स्थान-प्रयत्नानुप्रदानं पुरस्कृत्य वर्णविभागः पञ्चधा कृतः-
स्वरतः कालतः स्थानात्प्रयत्न्नानुप्रदानतः ।
इति वर्णविदः प्राहुर्निपुणं तं निबोधत ।।
Keywords .
Field Arts
Published In Volume 16, Issue 1, January-June 2025
Published On 2025-02-04
Cite This वैदिक शिक्षा पद्धतिः – एकं अध्ययनम् - जसराम बैरवा - IJAIDR Volume 16, Issue 1, January-June 2025.

Share this